
वयं प्रफुल्लितकुसुमानि...। गणगीतम्।
- Nandhakishor Raju

- Aug 6, 2025
- 1 min read
Updated: Sep 14, 2025
वयं प्रफुल्लितकुसुमानि
भारतमातुः पूजार्थम्।
यद्यपि नाना वर्णविभागाः
युगपत्कुर्मस्तत्पूजां.... (2)
वयं प्रफुल्लितकुसुमानि....
अस्यां मृदि खलु जातानि
गङ्गाजलेन सिक्तानि।
अत्र छाया महातरूणां
सतां ऋषीणां ज्ञानवताम्.....(2)
वयं प्रफुल्लितकुसुमानि.....
गायामो वयमनवरतं ननु
वन्देमातरगीतमिदम्।
स्वर्गादपि यत् श्रेष्ठं मन्ये
अत्र जीवितं सुकृतमिदम्......(2)
वयं प्रफुल्लितकुसुमानि.....
.png)


Gd