top of page

परीक्षिद्रामवर्मकृतायाः सुबोधिन्याः वैशिष्ट्यम् । भाषापरिच्छेदस्य, मुक्तावल्याः, दिनकरीव्याख्यानस्य तात्पर्यज्ञानार्थम् एवं प्रभादूषणार्थं च श्रीपरीक्षिद्रामवर्मेण सुबोधिनीयं रचिता।

संस्कृतक्षेत्रे केरलीयानां योगदानं अतिप्रधानं वर्तते। भाषायाः सर्वासु शाखासु एतेषां सुन्दरमनोहररसयुक्ताः युक्तयः प्रतिफलिताः इति अस्माभिः दृष्टुं शक्यन्ते। काव्य-नाटक-चम्पू प्रभृतिषु एवं व्याकरण-तन्त्र-मन्त्र-गणित-शिल्प-वैद्यशास्त्रेषु च केरलीयानां सम्भावना महती विद्यते। दर्शनेषु तावत् मीमांसा एवं तर्कश्च प्राधान्येन परिगणितः। शक्तिभद्रः, शङ्कराचार्यः, मेल्पुत्तूर् नारायणभट्टः इत्यादयः केरलाचार्याः लोकविश्रुताः।

पूर्वं संस्कृताध्ययनं पारम्पर्यरीत्या पाठशालायाः अधीनतायां प्राचलत्। तासु पय्यूर्, कूटल्लूर् पाठशालासु मीमांसायाः, कोटुङ्ङल्लूर्, तृप्पूणित्तुरा पाठशालासु तर्कस्य च महत् स्थानम् आसीत्। पय्यूर् परम्परा प्राप्ताः प्रातस्स्मरणीयाः पण्डिताः भवन्ति ऋषिपरमेश्वरादयः। कूडल्लूर् परम्परा च मेषत्तूर् अग्निहोत्री परम्परा इति नाम्नापि प्रसिद्धा। नारायणवासुदेवादयः तस्यां परम्परायां प्रसिद्धाः।


वैय्याकरणमीमांसाशास्त्रयोः प्रभावः केरलेषु सामान्येन अवर्तत किन्तु न्यायदर्शनस्य प्राचुर्यं तावत् न अविद्यत।

सभामठेषु तु न्यायदर्शनस्य पठने अवसरः नितरां विरलः आसीत्। तदा एव क्रमशः तर्कशास्त्रपठनं कोडुङ्ङल्लूर् तृप्पूणित्तुरा मध्ये राजगृहेषु आरब्धम्। ते राजानः तर्कशास्त्रपाठनाय वरीयान् पण्डितान् स्वप्रासादम् आनयन्। तेषु कुम्भकोणं कृष्णशास्त्री, शठगोपाचार्यः कोडुङ्ङल्लूरे शेषाचार्यः रङ्गप्पाचार्यः च तृप्पूणित्तुरायां प्रसिद्धाः। तेषां शिष्याः प्रशिष्या एव केरलीयन्यायशास्त्रपरम्पराप्रासादस्य स्थूणभूताः। कोडुङ्ङल्लूर् मध्ये कोच्चुण्णिराजा, कुञ्ञुक्कुट्टन् तम्पुरान्, वलियकोच्चुण्णिराजा, गोदवर्मा इलयतम्पुरान्, गोदवर्मा भट्टन्तम्पुरान् च शिष्यपरम्परापालकाः विराजन्ते। मान्तिट्ट कुञ्जुनम्पूतिरि, आट्टूर् कृष्णपिषारटि च प्रसिद्धौ प्रशिष्यस्थानं अलङ्कुर्वतः। तृप्पूणित्तुरा देशे तर्कशास्त्रे अनितरसाधारणीं प्रतिभां प्रकाशितवन्तौ राजर्षि रामवर्मा, परीक्षित् रामवर्मा महोदयौ।

परीक्षित् रामवर्मा महाराजः तर्कशास्त्रे महान् पण्डितः आसीत्। बाल्यादेव संस्कृते दत्तश्रद्धो महाराजः चतुर्थे वयसि एव संस्कृतपठने स्वमात्रा नियुक्तः। मातुः सकाशादेव प्राथमिकपाठाः शिक्षिताः। पुनः श्रीमन् कुञ्जन्वारियर् महोदयः तृप्पूणित्तुरा संस्कृतपाठशालायां तेषां गुरुभूतः अभवत्। काव्यालङ्कारन्यायादीनि शास्त्राणि तत्रैव पठितानि। पुनः राजर्षि रामवर्मणः एव न्यायशास्त्रप्रौढग्रन्थाः अधीताः। ते महाभागास्तु परमनैयायिकपण्डिताः आसन्। एरणाकुलं महाराजा कालेज् एवं मद्रास् प्रसिडन्सी कालेज् मध्ये तस्य उन्नतविद्याभ्यासः प्रचलितः।

मद्रास् तः बि. ए बिरुदं सम्पाद्य स्थिरवासाय तृप्पूणित्तुरायां उपागताः। तत्पुनरेव तैः वेदान्तमीमांसाविषयकपठनमारब्धम्। किन्तु न्याये एव तेषां विशेषाभिनिवेशः आसीत्। 1947 तमे वर्षे ते कोच्चिराज्यस्य महाराजपदवीमारूढाः। ततः प्रभृति संस्कृतविद्यालये, कलाशालासु तेषां विशेषश्रद्धा समजनि। पठने पाठने च निरताः ते योगितुल्यः अवर्तन्त। भोजन-शयनादिषु साधारण मानवरीतिं ते अन्वकुर्वन्। त्रिप्पूणित्तुरा विद्वद्सभा तेषां श्रमेणैव संघटिताः। राजर्षि रामवर्मा, शठगोपाचार्यः, कोच्चम्मामन् तम्पुरान्, एटमना कृष्णन् नम्पूतिरि, अय्या शास्त्री, सुब्रह्मण्यशास्त्री, सर्वश्री भट्टन् तम्पुरान्, किल्लिमङ्गलं नारायणन् नम्पूतिरि, मान्तिट्टा कुञ्ञुनम्पूतिरि, सेतुमाधवदीश्रिताचार्यः च गुरुशिष्यसतीर्थ्यरूपेण तेषां न्यायशास्त्रपद्धतौ प्रकाशनालायिताः।

कोच्चिराजपदवीम् आरूढैरपि तैः तृप्पूणित्तुरा महाविद्यालये अध्यापकवृत्तिर्न उपेक्षिता। पाठनकर्मणि तेषाम् अभिनिवेशः तादृशो आसीत्। परदेशीयाः पण्डिताः अपि शास्त्रसदसि भाग्भवितुं तदा तृप्पूणित्तुराम् आगच्छन्ति स्म। तत्समये सर्वे राज्ञाम् आथित्यं स्वीकृत्य तत्प्रासादे एव अवसन्। पण्डितेभ्यः मासिकवेतनव्यवस्था च तैरेव आरब्धा। पाण्डित्यमेव तेषां सौहृदस्य समेषां परागतिः। तदा सः  काञ्चीकामकोटीपीठाधिपैः श्रीशङ्कराचार्यैः “दर्शनकलानिधिः” पुरस्कारेण समादृतः। “अभिनवतर्कवागीशः” इति पुरस्कारेणापि समादृतस्य तस्य वैदुष्यं सर्वैः अङगीकृतम्। बनारस् सर्वकलाशालातः “विद्यावाचस्पति” बिरुदमपि तेन लब्धम्। सुप्रसिद्धेन ‘सुबोधिनी’ नाम्ना ग्रन्थेन सह प्रमुखाः अन्याः काश्चन ग्रन्थाः अपि तैः रचिताः। ते तु

1.    भावदीपिका - कालिदासशाकुन्तलस्य व्याख्यारूपैषा। सुहृदा रामपिषारटिना साकमेव ग्रन्थस्यास्य रचना कृता। इदं तु भावात्मक-रसात्मकपठनमेव शाकुन्तलस्य।

2.    उत्तरनैषधीयव्याख्यानम् – राज्ञा रचितमेतत् व्याख्यानं श्रीहर्षस्य नैषधीयमहाकाव्यस्य उत्तरभागस्य केरलीयपण्डितेन आट्टूर् अटितिरिणा लिखितस्य।

3.    प्रहलादचरितम्, अम्बरीक्षचरितम्, सुकन्याचरितम्, राधामाधवम् च तेषां रचनापाटवात् निर्गतानि चम्पूपाटलानि।

4.    जलवद् हृद निश्चयत्व विचारः- अयं तु न्यायविषयात्मकः प्रबन्धरूपः लघुग्रन्थः।

5.    भगवन्नामकौमुदी – अयं तु मलयालानुवादः लक्ष्मीधराचार्यस्य समाननामकस्य ग्रन्थस्य।

6.    दलङ्ङल् – गीतात्मकं, प्रबन्धं, निरूपणं च ग्रन्थस्यास्य प्रतिपाद्यविषयाः। अयं कैरलीभाषया लिखितः ग्रन्थः।

पुनः बहूनि स्तोत्राणि गीतानि च तैः महाराजैः रचितानि। कुलदेवतानमस्कारात्मकं इष्टदेवतात्मकं च प्रसिद्धानि बहूनि सन्ति।


श्रीरामवर्मकृतसुबोधिनीवैशिष्ट्यम्।

काणादं पाणिनीयं च सर्वशास्त्रोपकारकमिति मान्योक्तिः। अत्र काणादमित्यस्य न्यायशास्त्रस्योपलक्षणम्। यथार्थज्ञानं प्रमा इति व्यवह्रियते। प्रमायाः असाधाराणकारणानां-प्रमाणानां विज्ञानाय न्यायशास्त्रं सर्वान् उपकरोति। विभिन्नदर्शनेषु वादग्रन्थाः नव्यन्यायशैलीमनुसृत्य प्रवर्तन्ते इति प्राचीनन्यायवत् नव्यन्यायशास्त्रमपि सकलशास्त्रोपकारकं भवति। श्रीमद्गङ्गेशोपाध्यायानां तत्त्वचिन्तामणि ग्रन्थः एव नव्यन्यायशास्त्रस्य प्रथमग्रन्थः। अत एव  गङ्गेशोपाध्यायः नव्यन्यायदर्शनप्रवर्तकः इति नाम्ना प्रसिद्धः। एवं नव्यन्यायप्रवर्तकपदवीमलङ्कुर्वन्ति मणि-दीधिति-गादाधर्यःग्रन्थाः1।

प्राचीन-नव्यन्यायशास्त्रयोः समानसिद्धान्तान् संकलय्य श्रीविश्वनाथन्यायपञ्चाननभट्टाचार्याः कारिकावलीं तद्व्याख्यानरूपेण न्यायसिद्धान्तमुक्तावलीं च प्रणीतवन्तः। न्यायशास्त्रे प्रविविक्षुभिः सर्वैरपि अन्तेवासिभिः अवश्यमयं ग्रन्थः पठनीयः वर्तते। सिद्धान्तमुक्तावलीग्रन्थः अध्ययनसम्प्रदाये विद्वद्वरेण्यैः श्रीमहादेवभट्टविरचितैः प्रकाशनामकव्याख्यानेन सहैव अनादिकालात् अधीयते। प्रकाशव्याख्या श्रीमहादेवभट्टात्मजैः दिनकरभट्टैः प्रपूरितः इत्यतः हेतोः दिनकरीति नाम्ना सुप्रथिता वर्तते। प्रौढव्याख्यानमिदं महद्व्युत्पत्त्यादायकं भवति। ग्रन्थमिमं पठतां पाठयतां च तत् तात्पर्यविशेषावधारणादौ बहुश्रुतैः श्रीरामरुद्रभट्टाचार्यैः विनिर्मिताः तरङ्गिणी च सहायभूता वर्तते। मुक्तावल्याः प्रभामञ्जूषादि व्याख्यानान्तराणि च विद्यन्ते। एवं बहुविधव्याख्यानैः सम्पुष्टस्यास्य ग्रन्थस्य व्याख्यानेषु अन्यतमं भवति श्रीदर्शनकलानिधि रामवर्मपरीक्षित्गोश्रीमहाराजविरचितभाषापरिच्छेद-मुक्तावलि-दिनकरी-रामरुद्रीव्याख्या सहित सुबोधिनी व्याख्यानम्2। प्रभानामकव्याख्याकारः अनेकत्र दिनकर्याः तात्पर्यं यथावत् अग्रहीत्वा अदूषयन्। भाषापरिच्छेदस्य, मुक्तावल्याः, दिनकरीव्याख्यानस्य तात्पर्यज्ञानार्थम् एवं प्रभादूषणार्थं च श्रीपरीक्षिद्रामवर्मेण सुबोधिनीयं रचिता।

इदमपि प्रासङ्गिकं किञ्चिदत्र प्रस्तूयते यत् गुरुपरम्परानुवृत्तः सुबोधिनीकृतां मुक्तावलिप्रकाशविषये समादरातिशयः वर्तते। यतो हि गुरुपरम्परया तस्मिन् अधिकारः अस्ति। बहुकालात् पूर्वं श्रीगोश्रीमहाराजानामास्थानं प्राप्ताः न्यायशास्त्रपारङ्गताः तरङ्गिणी कृतां प्रशिष्याः  कुम्भकोणदेशीयाः श्रीशेषाचार्याः एव सुबोधिनीकारस्य रामवर्मणः मातुलस्य श्रीराजर्षिरामवर्मगोश्रीमहाराजस्य गुरुभूताः। ते महापण्डिताः एव तद्भागिनेयानां सुबोधिनीकाराणां श्रीरामवर्मणां प्रकाशाध्यापकः। परैः उद्भावितानि दूषणानि समुद्धृत्य प्रकाशस्याशयप्रकाशने तत्प्रामाण्यसमर्थने च सुबोधिनी कृतामयमुद्यमस्समुचितः, समुचिता गुरुसपर्यापि भवतीति पण्डितानां मान्तिट्टप्रभृतीनामभिप्रायः।

ग्रन्थोयं भाषापरिच्छेदतात्पर्यग्राहकं भवति। तत्र स्थालीपुलाकन्यायेन यथाक्रमं कारिकावल्यादि व्याख्यानसन्दर्भेषु विद्यमानं वैशिष्ट्यं किञ्चिदत्र प्रदर्श्यते। यथा भाषापरिच्छेदे मङ्गलश्लोके नूतनजलधररुचये3 इत्यंशव्याख्यानवेलायां नूतनेत्यादि विशेषणपदप्रयोगस्य सार्थक्यम् एभिः प्रदर्शितं वर्तते। यत् नूतनशब्दस्य लोकोत्तरसुषमाभाजः अर्थः। तेन भक्तानां ध्यानौत्सुक्यं सम्पाद्यते। अनेन व्याख्यानेन कारिकावलिकाराणां तात्पर्यं सुस्पष्टं वर्तते।

मुक्तावल्याः सम्यक् तात्पर्यावगमनाय ग्रन्थोयं प्रवर्तते इत्युदाहरणं यथा क्वचिच्च विघ्नात्यन्ताभाव एव समाप्तिसाधनमिति मुक्तावलिग्रन्थः4। तत्र क्वचिच्च इत्यत्र चकारः स्वतस्सिद्धविघ्नविरहत्वरूपविशेषद्योतकः इति सुबोधिनी व्याख्यानम्।

दिनकरीतात्पर्यग्राहकोयं ग्रन्थः इत्यत्र उदाहरणं प्रदर्श्यते। दिनकरीये ईश्वरानुमाने नित्यैकाकृति सिद्धिरिति दृश्यते। तथा सति दिनकरीकारैः पूर्वोद्भावितसिद्धसाधनमसङ्गतम्। यतः नित्यैकत्वयोरप्यनुमित्ये विषयीकरणे तादृशकृतजन्यत्वस्य पूर्वमसिद्धत्वात्। तत्र एतेषां समाधानं वर्तते। तद्धर्मावच्छिन्नप्रकारकसिद्धेस्तद्धर्मावच्छिन्नविधेताकानुमितिं प्रति प्रतिबन्धकत्वात्, अनुमितिविधेतावच्छेदकतायां परामर्शीयव्यापकतावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यतायाः प्रयोजकत्वात्, प्रकृतानुमितेः कृतिजन्यत्वावच्छिन्नविधेयताकत्वात् सिद्धसाधनोपपत्तेः इति।

प्रभादूषणेन दिनकरीप्रामाण्यस्थापनाय च प्रवर्तते अयम् ग्रन्थः। यथा ईश्वरानुमाने शरीराजन्यत्वेन कर्त्रजन्यत्वसाधकेन सत्प्रतिपक्ष इति  वाच्यमप्रयोजकत्वादिति मुक्तावलिग्रन्थस्य दिनकरीकाराः एवं व्याख्यनमकुर्वन्। तत् शरीरजन्यत्वहेतोः शरीररूपविशेषणस्य असिद्धिवारकस्यापि व्यभिचारवारकत्वेन व्यर्थतया, तद्विशेषणावच्छेदेन व्याप्तिग्रहासम्भवेन व्याप्यत्वासिद्धेश्चेत्यपि दृष्टव्यम् इति। तत्र व्याप्यत्वासिद्धिरुत्पादनं न सङ्गतमिति प्रभाकारः दिनकरीमदूषयन्। सुबोधिनीकाराः तद्दूषणमुद्धृत्य व्याप्यत्वासिद्धिमुत्पाद्य दिनकरीप्रामाण्यं स्थापितवन्तः।

एवं केरलीयन्यायशास्त्रपरम्परायाम् अनितरसाधारणणीभूतोयं ‘सुबोधिनी’ ग्रन्थस्य पठनपाठनावसरः साम्प्रतं नैव उपलभ्यते। तर्कशास्त्रपठनस्य ह्रासः व्याख्यानस्यास्य काठिन्यं वा तत्कारणमिति शङ्क्यते। किन्तु केरलीयन्यायशास्त्रपरम्परायाः स्थानं, प्राधान्यं च यथातथमवगन्तुं सुबोधिनीसदृशो नापरो ग्रन्थोस्तीति विदुषां मतम्।

1 Comment

Rated 0 out of 5 stars.
No ratings yet

Add a rating
Rated 4 out of 5 stars.

उत्तमम्

Like
bottom of page

Install Live Sanskrit

Learn Sanskrit like an app.
Faster access • Focused learning • No browser