top of page

संस्कृताय ज्ञानपीठपुरस्कारः। आधुनिकसंस्कृतसाहित्यनभोमण्डले सत्यव्रतशास्तिवर्यः अद्वितीयः। अद्य शास्त्रिवर्यस्य जन्मवार्षिकम्।

Updated: Dec 31, 2025

श्रीमान् सत्यव्रतशास्त्री (Satyavrata Shastri) महोदयः (29 सप्टेम्बर् 1930 - 14 नवम्बर् 2021) ‍अद्यतनसंस्कृतभाषासाहित्ये प्रसिद्धः कविः वैयाकरणश्च।

"महामहोपाध्याय" "विद्यावाचस्पति" इत्याद्युपाधिभिः मण्डितेनानेन महाभागेन श्रीरामकीर्तिमहाकाव्यम् श्रीबोधिसत्त्वचरितम् श्रीगुरुगोविन्दसिंहचरितम् इन्दिरागान्धीचरितम् थायिदेशविलासम् इत्यादयः कृतयः प्रणीताः। अनेन प्रकटितास्वितरासु कृतिषु सुभाषितसाहस्री नामकं सङ्कलनं वैदिकव्याकरणम् नामकं भाषान्तरीकरणं च वर्तेते।


भारतदेशे भाषासेवायै दीयमाना उत्तमोपाधिः "ज्ञानपीठपुरस्कारः" संस्कृतभाषाक्षेत्रे ऐदम्प्राथम्येन अनेन महाभागेन एव प्राप्तम् ।

<iframe width="560" height="315" src="https://www.youtube.com/embed/OdtolsS0qkg?si=xoVPhF6lhjirvdGy" title="YouTube video player" frameborder="0" allow="accelerometer; autoplay; clipboard-write; encrypted-media; gyroscope; picture-in-picture; web-share" referrerpolicy="strict-origin-when-cross-origin" allowfullscreen></iframe>

'श्रीगुरुगोविन्दसिंहचरितम्' काव्याय अनेन साहित्याकादमीपुरस्कारश्च गृहीतः। श्रीमता सत्यव्रतशास्त्रिणेदानीं नवदिल्ल्यां जवहरलाल्-विश्वविद्यालये गौरवाचार्यपदव्यलङ्कृता।



 
 
 

Comments

Rated 0 out of 5 stars.
No ratings yet

Add a rating
bottom of page

Install Live Sanskrit

Learn Sanskrit like an app.
Faster access • Focused learning • No browser