
मूकाम्बिकाष्टकम्।
- Kusosu

- Jul 20, 2025
- 1 min read
मूकाम्बिकां जगन्नाथां
सर्वविद्याप्रदायिनीम्।
सिद्धिबुद्धिप्रदां देवीं
वन्देsहं परमेश्वरीम्।। 1
वेदवेद्यां महाविद्यां
सर्वमन्त्रस्वरूपिणीम्।
शुद्धज्ञानप्रदां देवीं
वन्देsहं परमेश्वरीम्।। 2
पद्मालयां सदा वन्द्यां
नारायणप्रियां श्रियम्।
महैश्वर्यप्रदां देवीं
वन्देsहं परमेश्वरीम्।। 3
क्षीराब्धितनयां नित्यां
शुद्धां पद्मासनस्थितां
सम्पत्करीं सदानन्दां
वन्देsहं परमेश्वरीम्।। 4
सन्तापनाशिनीमम्बां
शर्वाणीं सद्गतिप्रदाम्।
सर्वविघ्नहरां देवीं
वन्देsहं परमेश्वरीम्।। 5
हिमाद्रितनयां गौरीं
सर्वदेवनुतां शिवाम्।
वाञ्छितार्थप्रदां शान्तां
वन्देsहं परमेश्वरीम्।। 6
पराशक्तिं परामम्बां
मूकासुरनिषूददिनीम् ।
कोल्लापुरेश्वरीं सौम्यां
वन्देsहं परमेश्वरीम्।। 7
विद्यास्वरूपिणीं प्रातर् -
मध्याह्ने श्रीस्वरूपिणीम्।
सायं शक्तिस्वरूपां तां
वन्देsहं परमेश्वरीम्।। 8
। शुभम्।
.png)



Hi
Nice