हे कृष्ण ! गुरुपवनपुरेशकीर्तनम्
Updated: Sep 30, 2025
नारायणो सर्वजगन्निवासो
दैत्यान्तको मानसराट् विभुश्च।
श्वेतैःसुमैः पद्मतुलसीभिरिष्टैः
माल्यैः विराजत्यतिसुन्दरो हि।।
कारुण्यमेतत्तव वासुदेव
तालानुरूपं हृदयस्य यन्मे।
आन्दोलनं ते हृदये ममाद्य
हे कृष्ण दामोदर मोदतां नु।।
.png)




सुन्दरम्